|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.11. अध्यायः 011
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति इन्द्रवृत्रासुरयुद्धप्रकारकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा।
वासुदेवो महातेजास्ततो वचनमाददे॥ 14-11-1(92670)
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्।
उपप्लुतमिवादित्यं सधूममिव पावकम्॥ 14-11-2(92671)
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः।
आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे॥ 14-11-3(92672)
वासुदेव उवाच। 14-11-4x(7795)
सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम्।
एतावान्ज्ञानविषयः किं प्रलापः करिष्यति॥ 14-11-4(92673)
नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः।
कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे॥ 14-11-5(92674)
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्।
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत॥ 14-11-6(92675)
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप।
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते।
धराहरणदुर्गन्धो विषयः समपद्यत॥ 14-11-7(92676)
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते।
वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत्॥ 14-11-8(92677)
स वध्यमानो वज्रेण सुभृशं भूरितेजसा।
विवेश सहसा तोयं जग्राह विषयं ततः॥ 14-11-9(92678)
अप्सु वृत्रगृहीतासु रसे च विषये हृते।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-10(92679)
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा।
विवेश सहसा ज्योतिर्जग्राह विषयं ततः॥ 14-11-11(92680)
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-12(92681)
स वद्यमानो वज्रेण तस्मिन्नमिततेजसा।
विवेश सहसा वायुं जग्राह विषयं ततः॥ 14-11-13(92682)
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते।
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-14(92683)
स वध्यगानो वज्रेण तस्मिन्नमिततेजसा।
आकाशमभिदुद्राव जग्राह विषयं ततः॥ 14-11-15(92684)
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते।
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्॥ 14-11-16(92685)
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा।
विवेश सहसा शक्रं जग्राह विषयं ततः॥ 14-11-17(92686)
तस्य वृत्रगृहीतस्य मोहः समभवन्महान्।
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत्॥ 14-11-18(92687)
ततो वृत्रं शरीरस्थं जघान भरतर्षभ।
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्॥ 14-11-19(92688)
इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु।
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप॥ ॥ 14-11-20(92689)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-11-2 उपप्लुतं राहुग्रस्तम्॥ 7-11-4 जिह्मं कामादि। मृत्युपदं संसारप्रापकम्। अजिह्मं शमादि। ब्रह्मणः पदं मोक्षस्य प्रापकम्। ज्ञानविषयो हेयोपादेयतया ज्ञातव्योर्थः। आर्जवं ब्रह्मणः पदमिति झ.ध.पाठः॥ 7-11-7 धराहरणनिस्सार इति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|